म॒शका॒न् केशै॒रिन्द्र॒ स्वप॑सा॒ वहे॑न॒ बृह॒स्पति॑ꣳशकुनिसा॒देन॑ कू॒र्म्माञ्छ॒फैरा॒क्रम॑ण स्थू॒राभ्या॑मृ॒क्षला॑भिः क॒पिञ्ज॑लाञ्ज॒वं जङ्घा॑भ्या॒मध्वा॑नं बा॒हुभ्यां॒ जाम्बी॑ले॒नार॑ण्यम॒ग्निम॑ति॒रुग्भ्यां॑ पू॒षणं॑ दो॒र्भ्याम॒श्विना॒वꣳसा॑भ्या रु॒द्रꣳ रोरा॑भ्याम् ॥३ ॥
म॒शका॑न्। केशैः॑। इन्द्र॑म्। स्वप॒सेति॑ सु॒ऽअप॑सा। वहे॑न। बृह॒स्पति॑म्। श॒कु॒नि॒सा॒देनेति॑ शकुनिऽसा॒देन॑। कू॒र्मान्। श॒फैः। आ॒क्रम॑णमित्या॒ऽक्रम॑णम्। स्थू॒राभ्या॑म्। ऋ॒क्षला॑भिः। क॒पिञ्ज॑लान्। ज॒वम्। जङ्घा॑भ्याम्। अध्वा॑नम्। बा॒हुभ्या॒मिति॑ बा॒हुऽभ्या॑म्। जाम्बी॑लेन। अ॒ग्निम्। अ॒ति॒रुग्भ्या॒मित्य॑ति॒रुग्ऽभ्या॑म्। पूषण॑म्। दो॒र्भ्यामिति॑ दोः॒ऽभ्याम्। अ॒श्विनौ॑। अꣳसा॑भ्याम्। रु॒द्रम्। रोरा॑भ्याम् ॥३ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(मशकान्) (केशैः) शिरस्थैर्बालैः (इन्द्रम्) ऐश्वर्यम् (स्वपसा) सुष्ठु कर्मणा (वहेन) प्रापणेन (बृहस्पतिम्) बृहत्या वाचः स्वामिनं विद्वांसम् (शकुनिसादेन) येन शकुनीन् सादयति तेन (कूर्मान्) कच्छपान् (शफैः) खुरैः (आक्रमणम्) (स्थूराभ्याम्) स्थूलाभ्याम् (ऋक्षलाभिः) गत्यादानैः (कपिञ्जलान्) पक्षिविशेषान् (जवम्) वेगम् (जङ्घाभ्याम्) (अध्वानम्) मार्गम् (बाहुभ्याम्) भुजाभ्याम् (जाम्बीलेन) फलविशेषेण (अरण्यम्) वनम् (अग्निम्) पावकम् (अतिरुग्भ्याम्) रुचीच्छाभ्याम् (पूषणम्) पुष्टिम् (दोर्भ्याम्) भुजदण्डाभ्याम् (अश्विनौ) प्रजाराजानौ (अंसाभ्याम्) भुजमूलाभ्याम् (रुद्रम्) रोदयितारम् (रोराभ्याम्) कथनश्रवणाभ्याम् ॥३ ॥