यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ऽइद्राजा॒ जग॑तो ब॒भूव॑। य ईशे॑ऽअ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥११ ॥
यः। प्रा॒ण॒तः। नि॒मि॒ष॒त इति॑ निऽमिष॒तः। म॒हि॒त्वेति॑ महि॒ऽत्वा। एकः॑। इत्। राजा॑। जग॑तः। ब॒भूव॑। यः। ईशे॑। अ॒स्य। द्वि॒पद॒ इति॑ द्वि॒ऽपदः॑। चतु॑ष्पदः। चतुः॑पद॒ इति॑ चतुः॑ऽपदः। कस्मै॑। दे॒वाय॑। ह॒विषा॑। वि॒धे॒म॒ ॥११ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(यः) सूर्यः (प्राणतः) प्राणिनः (निमिषतः) चेष्टां कुर्वतः (महित्वा) महत्त्वेन (एकः) असहायः (इत्) एव (राजा) प्रकाशकः (जगतः) संसारस्य (बभूव) भवति (यः) (ईशे) ऐश्वर्यं करोति (अस्य) (द्विपदः) द्वौ पादौ यस्य तस्य मनुष्यादेः (चतुष्पदः) चत्वारः पादा यस्य गवादेस्तस्य (कस्मै) सुखकारकाय (देवाय) दीपकाय (हविषा) आदानेन (विधेम) सेवेमहि ॥११ ॥