सूर्य्य॑ऽएका॒की च॑रति च॒न्द्रमा॑ जायते॒ पुनः॑। अ॒ग्निर्हि॒मस्य॑ भेष॒जं भूमि॑रा॒वप॑नं म॒हत्॥४६ ॥
सूर्य्यः॑। ए॒का॒की। च॒र॒ति॒। च॒न्द्रमाः॑। जा॒य॒ते॒। पुन॒रिति॒ऽपुनः॑। अ॒ग्निः। हि॒मस्य॑। भे॒ष॒जम्। भूमिः॑। आ॒वप॑न॒मित्या॒ऽवप॑नम्। म॒हत्॥४६ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर पूर्वोक्त प्रश्नों के उत्तरों को अगले मन्त्र में कहते हैं ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनः पूर्वोक्तप्रश्नोत्तराण्याह ॥
(सूर्य्यः) सूर्य्यलोकः (एकाकी) असहायः (चरति) (चन्द्रमाः) आह्लादकरश्चन्द्रः (जायते) प्रकाशितो भवति (पुनः) पश्चात् (अग्निः) पावकः (हिमस्य) शीतस्य (भेषजम्) औषधम् (भूमिः) भवन्ति भूतानि यस्यां सा पृथिवी (आवपनम्) समन्ताद् वपन्ति यस्मिँस्तत् (महत्) विस्तीर्णम् ॥४६ ॥
