र॒ज॒ता हरि॑णीः॒ सीसा॒ युजो॑ युज्यन्ते॒ कर्म॑भिः। अश्व॑स्य वा॒जिन॑स्त्व॒चि सिमाः॑ शम्यन्तु॒ शम्य॑न्तीः ॥३७ ॥
र॒ज॒ताः। हरि॑णीः। सीसाः॑। युजः॑। यु॒ज्य॒न्ते॒। कर्म॑भिरिति॒ कर्म॑ऽभिः। अश्व॑स्य। वा॒जिनः॑। त्व॒चि। सिमाः॑। श॒म्य॒न्तु॒। शम्य॑न्तीः ॥३७ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर वे कैसी हों, इस विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्ताः कीदृशो भवेयुरित्याह ॥
(रजताः) अनुरक्ताः (हरिणीः) प्रशस्तो हरणं विद्यते यासां ताः (सीसाः) प्रेमबन्धिकाः। अत्र ‘षिञ् बन्धने’ इत्यस्मादौणादिकः क्सः प्रत्ययोऽन्येषामपीति दीर्घः (युजः) समाहिताः (युज्यन्ते) (कर्मभिः) धर्म्याभिः क्रियाभिः (अश्वस्य) व्याप्तुं शीलस्य (वाजिनः) प्रशस्तबलवतः (त्वचि) संवरणे (सिमाः) प्रेम्णा बद्धाः (शम्यन्तु) आनन्दन्तु (शम्यन्तीः) शमं प्राप्नुवतीः प्रापयन्त्यो वा ॥३७ ॥
