नार्य॑स्ते॒ पत्न्यो॒ लोम॒ विचि॑न्वन्तु मनी॒षया॑। दे॒वानां॒ पत्न्यो॒ दिशः॑ सू॒चीभिः॑ शम्यन्तु त्वा ॥३६ ॥
नार्य्यः॑। ते॒। पत्न्यः॑। लोम॑। वि। चि॒न्व॒न्तु॒। म॒नी॒षया॑। दे॒वाना॑म्। पत्न्यः॑। दिशः॑। सू॒चीभिः॑। श॒म्य॒न्तु॒। त्वा॒ ॥३६ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
अब कन्या कितना ब्रह्मचर्य करें, इस विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अथ कन्याः कियद् ब्रह्मचर्यं कुर्युरित्याह ॥
(नार्य्यः) नराणां स्त्रियः (ते) तव (पत्न्यः) स्त्रियः (लोम) अनुकूलं वचनम् (वि) (चिन्वन्तु) सञ्चितं कुर्वन्तु (मनीषया) मनस ईषणकर्त्र्या प्रज्ञया (देवानाम्) विदुषाम् (पत्न्यः) स्त्रियः (दिशः) (सूचीभिः) अनुसंधानक्रियाभिः (शम्यन्तु) (त्वा) त्वाम् ॥३६ ॥
