वा॒युष्ट्वा॑ पच॒तैर॑व॒त्वसि॑तग्रीव॒श्छागै॑र्न्य॒ग्रोध॑श्चम॒सैः श॑ल्म॒लिर्वृद्ध्या॑। ए॒ष स्य रा॒थ्यो वृषा॑ प॒ड्भिश्च॒तुर्भि॒रेद॑गन्ब्र॒ह्मा कृ॑ष्णश्च नोऽवतु॒ नमो॒ऽग्नये॑ ॥१३ ॥
वा॒युः। त्वा॒। प॒च॒तैः। अ॒व॒तु॒। असि॑तग्रीव॒ इत्यसि॑तऽग्रीवः। छागैः॑। न्य॒ग्रोधः॑। च॒म॒सैः। श॒ल्म॒लिः। वृद्ध्या॑। ए॒षः। स्यः। रा॒थ्यः। वृषा॑। प॒ड्भिरिति॑ प॒ड्ऽभिः। च॒तुर्भि॒रिति॑ च॒तुःभिः॑। आ। इत्। अ॒ग॒न्। ब्र॒ह्मा। अकृ॑ष्णः। च॒। नः॒। अ॒व॒तु॒। नमः॑। अ॒ग्नये॑ ॥१३ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
अब विद्वानों को मनुष्य कहाँ युक्त करने चाहियें, इस विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अथ विद्वद्भिर्मनुष्याः क्व योजनीया इत्याह ॥
(वायुः) आदिमः स्थूलः कार्य्यरूपः (त्वा) त्वाम् (पचतैः) परिपाकपरिणामैः (अवतु) रक्षतु (असितग्रीवः) असिता कृष्णा ग्रीवा शिखा यस्य सः (छागैः) छेदनैः (न्यग्रोधः) वटः (चमसैः) मेघैः (शल्मलिः) वृक्षविशेषः (वृद्ध्या) वर्द्धनेन (एषः) (स्यः) सः (राथ्यः) रथेषु हिता रथ्यास्तासु कुशलः (वृषा) वर्षकः (पड्भिः) पादैः। अत्र वर्णव्यत्ययेन दस्य डः (चतुर्भिः) (आ) (इत्) एव (अगन्) गच्छति (ब्रह्मा) चतुर्वेदवित् (अकृष्णः) अविद्यान्धकाररहितः (च) (नः) अस्मान् (अवतु) प्रवेशयतु (नमः) अन्नम् (अग्नये) प्रकाशमानाय विदुषे ॥१३ ॥