होता॑ यक्षद॒श्विनौ॒ छाग॑स्य ह॒विष॒ऽआत्ता॑म॒द्य म॑ध्य॒तो मेद॒ऽउद्भृ॑तं पु॒रा द्वेषो॑भ्यः पु॒रा पौरु॑षेय्या गृ॒भो घस्तां॑ नू॒नं घा॒सेऽअ॑ज्राणां॒ यव॑सप्रथमाना सु॒मत्क्ष॑राणा शतरु॒द्रिया॑णामग्निष्वा॒त्तानां॒ पीवो॑पवसनानां पार्श्व॒तः श्रो॑णि॒तः शि॑ताम॒तऽउ॑त्साद॒तोऽङ्गा॑दङ्गा॒दव॑त्तानां॒ कर॑तऽए॒वाश्विना॑ जु॒षेता॑ ह॒विर्होत॒र्यज॑ ॥४३ ॥
हो॒ता। य॒क्ष॒त्। अ॒श्विनौ॑। छाग॑स्य। ह॒विषः॑। आत्ता॑म्। अ॒द्य। म॒ध्य॒तः। मेदः॑। उद्भृ॑त॒मित्युत्ऽभृ॑तम्। पु॒रा। द्वेषो॑भ्य॒ इति॒ द्वेषः॑ऽभ्यः। पु॒रा। पौरु॑षेय्याः। गृ॒भः। घस्ता॑म्। नू॒नम्। घा॒सेऽअ॑ज्राणा॒मिति॑ घा॒सेऽअ॑ज्राणाम्। यव॑सप्रथमाना॒मिति॒ यव॑सऽप्रथमानाम्। सु॒मत्क्ष॑राणा॒मिति॑ सु॒मत्ऽक्ष॑राणाम्। श॒त॒रु॒द्रिया॑णा॒मिति॑ शतऽरु॒द्रिया॑णाम्। अ॒ग्नि॒ष्वा॒त्ताना॑म्। अ॒ग्नि॒स्वा॒त्ताना॒मित्य॑ग्निऽस्वा॒त्ताना॑म्। पीवो॑पवसनाना॒मिति॒ पीवः॑ऽउपवसनानाम्। पा॒र्श्व॒तः श्रो॒णि॒तः। शि॒ता॒म॒तः। उ॒त्सा॒द॒त इत्यु॑त्ऽसाद॒तः। अङ्गा॑दङ्गा॒दित्यङ्गा॑त्ऽअङ्गात्। अव॑त्तानाम्। कर॑तः। एव। अ॒श्विना॑। जु॒षेता॑म्। ह॒विः। होतः॑। यज॑ ॥४३ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(होता) आदाता (यक्षत्) (अश्विनौ) अध्यापकोपदेशकौ (छागस्य) (हविषः) आदातुमर्हस्य (आत्ताम्) (अद्य) (मध्यतः) मध्यात् (मेदः) स्निग्धम् (उद्भृतम्) उत्कृष्टतया धृतम् (पुरा) (द्वेषोभ्यः) दुष्टेभ्यः (पुरा) (पौरुषेय्याः) पुरुषाणां समूहे साध्व्यः (गृभः) ग्रहीतुं योग्यायाः (घस्ताम्) भक्षयताम् (नूनम्) निश्चितम् (घासेअज्राणम्) भोजनेऽग्रे प्राप्तव्यानाम् (यवसप्रथमानाम्) यवसो यवान्नं प्रथमं येषां तेषाम् (सुमत्क्षराणाम्) सुष्ठु मदां क्षरः संचलनं येषां तेषाम् (शतरुद्रियाणाम्) शतं रुद्राः शतरुद्राः शतरुद्रा देवता येषां तेषाम् (अग्निष्वात्तानाम्) अग्निः सुष्ठ्वात्तो गृहीतो यैस्तेषाम् (पीवोपवसनानाम्) पीवांस्युपवसनान्याच्छादनानि येषां तेषाम् (पार्श्वतः) उभयतः (श्रोणितः) कटिप्रदेशात् (शितामतः) शितस्तीक्ष्ण आमोऽपरिपक्वं यस्मिंस्तस्मात् (उत्सादतः) उत्सादनं कुर्वतः (अङ्गादङ्गात्) प्रत्यङ्गात् (अवत्तानाम्) नम्रीभूतानामुत्कृष्टानामङ्गानाम् (करतः) कुर्याताम् (एव) (अश्विना) सद्वैद्यौ (जुषेताम्) (हविः) अत्तुमर्हम् (होतः) (यज) ॥४३ ॥