ग्री॒ष्मेण॑ऽऋ॒तुना॑ दे॒वा रु॒द्राः प॒ञ्च॒द॒शे स्तु॒ताः। बृ॒ह॒ता यश॑सा॒ बल॑ꣳह॒विरिन्द्रे॒ वयो॑ दधुः ॥२४ ॥
ग्री॒ष्मेण॑। ऋ॒तुना॑। दे॒वाः। रुद्राः। प॒ञ्च॒द॒श इति॑ पञ्चऽद॒शे। स्तु॒ताः। बृ॒ह॒ता। यश॑सा। बल॑म्। ह॒विः। इन्द्रे॑। वयः॑। द॒धुः॒ ॥२४ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
मध्यम ब्रह्मचर्य विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
मध्यमब्रह्मचर्यविषयमाह ॥
(ग्रीष्मेण) सर्वरसग्रहीत्रा (ऋतुना) औष्ण्यं प्रापकेन (देवाः) दिव्यगुणाः (रुद्राः) दशप्राणा एकादश आत्मा मध्यमविद्वांसो वा (पञ्चदशे) (स्तुताः) प्रशस्ताः (बृहता) महता (यशसा) कीर्त्या (बलम्) (हविः) आदातव्यम् (इन्द्रे) जीवे (वयः) जीवनम् (दधुः) दध्युः ॥२४ ॥
