ति॒स्रऽइडा॒ सर॑स्वती॒ भार॑ती म॒रुतो॒ विशः॑। वि॒राट्छन्द॑ऽइ॒हेन्द्रि॒यं धे॒नुर्गौर्न वयो॑ दधुः ॥१९ ॥
ति॒स्रः। इडा॑। सर॑स्वती। भार॑ती। म॒रुतः॑। विशः॑। वि॒राडिति॑ वि॒ऽराट्। छन्दः॑। इ॒ह। इ॒न्द्रि॒यम्। धे॒नुः। गौः। न। वयः॑। द॒धुः॒ ॥१९ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर विद्वानों के विषय में अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनर्विद्वद्विषयमाह ॥
(तिस्रः) त्रित्वसंख्यावत्यः (इडा) भूमिः (सरस्वती) वाणी (भारती) धारणवती प्रज्ञा (मरुतः) वायवः (विशः) मनुष्याद्याः प्रजाः (विराट्) यद्विविधं राजते तत् (छन्दः) बलम् (इह) अस्मिन् संसारे (इन्द्रियम्) धनम् (धेनुः) या धापयति सा (गौः) (न) इव (वयः) प्राप्तव्यं वस्तु (दधुः) दध्युः ॥१९ ॥
