यु॒वꣳ सु॒राम॑मश्विना॒ नमु॑चावासु॒रे सचा॑। वि॒पि॒पा॒नाः सर॑स्व॒तीन्द्रं॒ कर्म॑स्वावत ॥७६ ॥
यु॒वम्। सु॒राम॑म्। अ॒श्वि॒ना॒। नमु॑चौ। आ॒सु॒रे। सचा॑। वि॒पि॒पा॒ना इति॑ विऽपिपा॒नाः। स॒र॒स्व॒ति। इन्द्र॑म्। कर्म्म॒स्विति॒ कर्म॑ऽसु। आ॒व॒त॒ ॥७६ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर प्रकारान्तर से विद्वानों के विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनः प्रकारान्तरेण विद्वद्विषयमाह ॥
(युवम्) युवाम् (सुरामम्) सुष्ठु रम्यम् (अश्विना) रक्षादिकर्मव्यापिनौ (नमुचौ) प्रवाहेण नित्यस्वरूपे (आसुरे) असुरो मेघ एव तस्मिन् (सचा) समवेताः (विपिपानाः) विविधरक्षादिकर्त्तारः। अत्र व्यत्ययेन लुग्विषये श्लुरात्मनेपदं च बहुलं छन्दसीतीत्वम् (सरस्वति) या प्रशस्तविज्ञानयुक्ता प्रजा तत्सम्बुद्धौ (इन्द्रम्) परमैश्वर्यम् (कर्मसु) (आवत) पालयत ॥७६ ॥
