गोभि॒र्न सोम॑मश्विना॒ मास॑रेण परि॒स्रुता॑। सम॑धात॒ꣳ सर॑स्वत्या॒ स्वाहेन्द्रे॑ सु॒तं मधु॑ ॥६६ ॥
गोभिः॑। न। सोम॑म्। अ॒श्वि॒ना॒। मास॑रेण। प॒रि॒स्रुतेति॑ परि॒ऽस्रुता॑। सम्। अ॒धा॒त॒म्। सर॑स्वत्या। स्वाहा॑। इन्द्रे॑। सु॒तम्। मधु॑ ॥६६ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(गोभिः) धेनुभिः (न) इव (सोमम्) ओषधिरसम् (अश्विना) सुशिक्षितौ वैद्यो (मासरेण) प्रमितेन मण्डेन। अत्र माङ् धातोरौणादिकः सरन् प्रत्ययः (परिस्रुता) सर्वतो मधुरादिरसयुक्तेन (सम्) (अधातम्) (सरस्वत्या) सुशिक्षाज्ञानयुक्तया वाचा (स्वाहा) सत्यया क्रियया (इन्द्रे) सति परमैश्वर्ये (सुतम्) निष्पादितम् (मधु) मधुरादिगुणयुक्तम् ॥६६ ॥
