अ॒श्विना॒ नमु॑चेः सु॒तꣳ सोम॑ꣳ शु॒क्रं प॑रि॒स्रुता॑। सर॑स्वती॒ तमाभ॑रद् ब॒र्हिषेन्द्रा॑य॒ पात॑वे ॥५९ ॥
अ॒श्विना॑। नमु॑चेः। सु॒तम्। सोम॑म्। शु॒क्रम्। प॒रि॒स्रुतेति॑ परि॒ऽस्रुता॑। सर॑स्वती। तम्। आ। अ॒भ॒र॒त्। ब॒र्हिषा॑। इन्द्रा॑य। पात॑वे ॥५९ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(अश्विना) सद्गुणकर्मस्वभावव्यापिनौ (नमुचेः) यो न मुञ्चति तस्यासाध्यस्यापि रोगस्य (सुतम्) सम्यक् निष्पादितम् (सोमम्) सोमाद्योषधिगणम् (शुक्रम्) वीर्यकरम् (परिस्रुता) परितः सर्वतो गच्छन्तावव्याहतगती। स्रु गतौ धातोः क्विप्, तुक्, द्विवचनस्य सुपाम्० [अष्टा०७.१.३९] इत्यात्वम्। (सरस्वती) प्रशंसिता गृहिणी तथा पुरुषः (तम्) (आ) (अभरत्) बिभर्त्ति (बर्हिषा) सुखवर्द्धकेन कर्मणा (इन्द्राय) परमैश्वर्यसुखाय (पातवे) पातुम्। अत्र पा धातोस्तुमर्थे तवेन् प्रत्ययः ॥५९ ॥
