त॒नू॒पा भि॒षजा॑ सु॒ते᳕ऽश्विनो॒भा सर॑स्वती। मध्वा॒ रजा॑सीन्द्रि॒यमिन्द्रा॑य प॒थिभि॑र्वहान् ॥५६ ॥
त॒नू॒पेति॑ तनू॒ऽपा। भि॒षजा॑। सु॒ते। अ॒श्विना॑। उ॒भा। सर॑स्वती। मध्वा॑। रजा॑सि। इ॒न्द्रि॒यम्। इन्द्रा॑य। प॒थिभि॒रिति॑ प॒थिऽभिः॑। व॒हा॒न् ॥५६ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
अब इस प्रकृत विषय में वैद्यविद्या के संचार को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अथ प्रकृतविषये वैद्यविद्यासंचरणमाह ॥
(तनूपा) यौ तनुं पातस्तौ (भिषजा) वैद्यकविद्यावेत्तारौ (सुते) उत्पन्ने जगति (अश्विना) व्याप्तशुभगुणकर्मस्वभावौ (उभा) उभौ (सरस्वती) सरो बहु विज्ञानं विद्यते ययोस्तौ (मध्वा) मधुरेण द्रव्येण (रजांसि) लोकान् (इन्द्रियम्) धनम् (इन्द्राय) राज्ञे (पथिभिः) मार्गैः (वहान्) वहन्तु प्राप्नुवन्तु ॥५६ ॥
