उ॒षासा॒नक्ता॑ बृह॒ती बृ॒हन्तं॒ पय॑स्वती सु॒दुघे॒ शूर॒मिन्द्र॑म्। तन्तुं॑ त॒तं पेश॑सा सं॒वय॑न्ती दे॒वानां॑ दे॒वं य॑जतः सुरु॒क्मे ॥४१ ॥
उ॒षासा॒नक्ता॑। उ॒षसा॒नक्तेत्यु॒षसा॒ऽक्ता॑। बृ॒ह॒तीऽइति॑ बृह॒ती। बृ॒हन्त॑म्। पय॑स्वती॒ऽइति॒ पय॑स्वती। सु॒दुघे॒ऽइति॑ सु॒दुघे॑। शूर॑म्। इन्द्र॑म्। तन्तु॑म्। त॒तम्। पेश॑सा। सं॒वय॑न्ती॒ इति॑ स॒म्ऽवय॑न्ती। दे॒वाना॑म्। दे॒वम्। य॒ज॒तः॒। सु॒रु॒क्मे इति॑ सुऽरु॒क्मे ॥४१ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(उषासानक्ता) उषाश्च नक्तं च ते (बृहती) वर्द्धमाने (बृहन्तम्) महान्तम् (पयस्वती) रात्र्यन्धकारयुक्ते (सुदुघे) सुष्ठु प्रपूरिके (शूरम्) निर्भयम् (इन्द्रम्) सूर्यम् (तन्तुम्) विस्तारकम् (ततम्) विस्तृतम् (पेशसा) रूपेण (संवयन्ती) प्रापयन्त्यौ। अत्र सर्वत्र बृहती इत्यादौ सुपां सुलुग्० [अष्टा०७.१.३९] इति पूर्वसवर्णदीर्घः (देवानाम्) पृथिव्यादीनाम् (देवम्) द्योतकम् (यजतः) संगच्छेते (सुरुक्मे) सुष्ठु दीप्यमाने ॥४१ ॥