जु॒षा॒णो ब॒र्हिर्हरि॑वान्न॒ऽइन्द्रः॑ प्रा॒चीन॑ꣳ सीदत् प्र॒दिशा॑ पृथि॒व्याः। उ॒रु॒प्रथाः॒ प्रथ॑मानꣳ स्यो॒नमा॑दि॒त्यैर॒क्तं वसु॑भिः स॒जोषाः॑ ॥३९ ॥
जु॒षा॒णः। ब॒र्हिः। हरि॑वा॒निति॒ हरि॑ऽवान्। नः॒। इन्द्रः॑। प्रा॒चीन॑म्। सी॒द॒त्। प्र॒दिशेति॑ प्र॒ऽदिशा॑। पृ॒थि॒व्याः। उ॒रु॒प्रथा॒ इत्यु॑रु॒ऽप्रथाः॑। प्रथ॑मानम्। स्यो॒नम्। आ॒दि॒त्यैः। अ॒क्तम्। वसु॑भि॒रिति॒ वसु॑ऽभिः। स॒जोषा॒ इति॑ स॒ऽजोषाः॑ ॥३९ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(जुषाणः) सेवमानः (बर्हिः) अन्तरिक्षम्। बर्हिरित्यन्तरिक्षनामसु पठितम् ॥ (निघं०१.३) (हरिवान्) बहवो हरयो हरणशीलाः किरणा विद्यन्ते यस्य सः (नः) अस्माकम् (इन्द्रः) जलानां धर्त्ता (प्राचीनम्) प्राक्तनम् (सीदत्) सीदति (प्रदिशा) उपदिशा (पृथिव्याः) भूमेः (उरुप्रथाः) बहुविस्तारः (प्रथमानम्) (स्योनम्) सुखकारकं स्थानम् (आदित्यैः) मासैः (अक्तम्) प्रसिद्धम् (वसुभिः) पृथिव्यादिभिः (सजोषाः) सह वर्त्तमानः ॥३९ ॥