उ॒प॒या॒मगृ॑हीतोस्य॒श्विभ्यां॑ त्वा॒ सर॑स्वत्यै॒ त्वेन्द्रा॑य त्वा सु॒त्राम्ण॑ऽए॒ष ते॒ योनि॑र॒श्विभ्यां॑ त्वा॒ सर॑स्वत्यै॒ त्वेन्द्रा॑य त्वा सु॒त्राम्णे॑ ॥३३ ॥
उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। अ॒श्विभ्या॒मित्य॒श्विऽभ्या॑म्। त्वा॒। सर॑स्वत्यै। त्वा॒। इन्द्रा॑य। त्वा॒। सु॒त्राम्ण॒ इति॑ सु॒ऽत्राम्णे॑। ए॒षः। ते॒। योनिः॑। अ॒श्विभ्या॒मित्य॒श्विऽभ्या॑म्। त्वा॒। सर॑स्वत्यै। त्वा॒। इन्द्रा॑य। त्वा॒। सु॒त्राम्ण॒ इति॑ सु॒ऽत्राम्णे॑ ॥३३ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(उपयामगृहीतः) उपयामैरुत्तमनियमैः संगृहीतः (असि) (अश्विभ्याम्) पूर्णविद्याऽध्यापको-पदेशकाभ्याम् (त्वा) त्वाम् (सरस्वत्यै) सुशिक्षितायै वाचे (त्वा) त्वाम् (इन्द्राय) परमैश्वर्याय (त्वा) (सुत्राम्णे) सुष्ठु रक्षकाय। अत्र कृतो बहुलम् [अष्टा०भा०वा०३.२.११३] इत्यनेन करणे मनिन् (एषः) (ते) तव (योनिः) विद्यासम्बन्धः (अश्विभ्याम्) (त्वा) (सरस्वत्यै) प्रशस्तगुणायै विदुष्यै (त्वा) (इन्द्राय) परमोत्तमव्यवहाराय (त्वा) (सुत्राम्णे) सुष्ठु रक्षकाय ॥३३ ॥