यत्रेन्द्र॑श्च वा॒युश्च॑ स॒म्यञ्चौ॒ चरतः स॒ह। तं लो॒कं पुण्यं॒ प्रज्ञे॑षं॒ यत्र॑ से॒दिर्न वि॒द्यते॑ ॥२६ ॥
यत्र॑। इन्द्रः॑। च॒। वा॒युः। च॒। स॒म्यञ्चौ॑। चर॑तः। स॒ह। तम्। लो॒कम्। पुण्य॑म्। प्र। ज्ञे॒षम्। यत्र॑। से॒दिः। न। वि॒द्यते॑ ॥२६ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(यत्र) यस्मिन्नीश्वरे (इन्द्रः) सर्वत्राऽभिव्याप्ता विद्युत् (च) (वायुः) धनञ्जयादिस्वरूपः पवनः (च) (सम्यञ्चौ) (चरतः) (सह) (तम्) (लोकम्) सर्वस्य द्रष्टारम् (पुण्यम्) पुण्यजन्यज्ञानेन ज्ञातुमर्हम् (प्र) (ज्ञेषम्) जानीयाम् (यत्र) यस्मिन् (सेदिः) नाश उत्पत्तिर्वा (न) निषेधे (विद्यते) ॥२६ ॥
