अ॒भ्याद॑धामि स॒मिध॒मग्ने॑ व्रतपते॒ त्वयि॑। व्र॒तं च॑ श्र॒द्धां चोपै॑मी॒न्धे त्वा॑ दीक्षि॒तोऽअ॒हम् ॥२४ ॥
अ॒भि। आ। द॒धा॒मि॒। स॒मिध॒मिति॑ स॒म्ऽइध॑म्। अग्ने॑। व्र॒त॒प॒त॒ इति॑ व्रतऽपते। त्वयि॑। व्र॒तम्। च॒। श्र॒द्धाम्। च॒। उप॑। ए॒मि॒। इ॒न्धे। त्वा॒। दी॒क्षि॒तः। अ॒हम् ॥२४ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(अभि) (आ) (दधामि) (समिधम्) समिधमिव ध्यानम् (अग्ने) स्वप्रकाशस्वरूप जगदीश्वर (व्रतपते) सत्यभाषणादीनां व्रतानां कर्मणां वा पालक। व्रतमिति कर्मनामसु पठितम् ॥ (निघं०२.१) (त्वयि) (व्रतम्) सत्यभाषणादिकं कर्म (च) (श्रद्धाम्) सत्यधारिकां क्रियाम् (च) (उप) (एमि) प्राप्नोमि (इन्धे) प्रकाशयामि (त्वा) त्वाम् (दीक्षितः) ब्रह्मचर्यादिदीक्षां प्राप्य जातविद्यः (अहम्) ॥२४ ॥