स॒मु॒द्रे ते॒ हृद॑यम॒प्स्व᳕न्तः सं त्वा॑ विश॒न्त्वोष॑धीरु॒तापः॑। सु॒मि॒त्रि॒या न॒ऽआप॒ऽओष॑धयः सन्तु दुर्मित्रि॒यास्तस्मै॑ सन्तु॒ यो᳕ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः ॥१९ ॥
स॒मु॒द्रे। ते॒। हृद॑यम्। अ॒प्स्वित्य॒प्सु। अ॒न्तरित्य॒न्तः। सम्। त्वा॒। वि॒श॒न्तु॒। ओष॑धीः। उ॒त। आपः॑। सु॒मि॒त्रि॒या इति॑ सुऽमित्रि॒याः। नः॒। आपः॑। ओष॑धयः। स॒न्तु॒। दु॒र्मि॒त्रि॒या इति॑ दुःऽमित्रि॒याः। तस्मै॑। स॒न्तु॒। यः। अ॒स्मान्। द्वेष्टि॑। यम्। च॒। व॒यम्। द्वि॒ष्मः ॥१९ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(समुद्रे) अन्तरिक्षे (ते) तव (हृदयम्) आत्मबलं जीवनहेतुस्थानम् (अप्सु) प्राणेषु (अन्तः) अन्तःकरणम् (सम्) सम्यगर्थे (त्वा) (विशन्तु) (ओषधीः) ओषध्यः (उत) (आपः) प्राणाः (सुमित्रियाः) सुमित्रा इव (नः) अस्मभ्यम् (आपः) प्राणा जलानि वा (ओषधयः) सोमयवाद्याः (सन्तु) (दुर्मित्रियाः) दुर्मित्राः शत्रव इव (तस्मै) (सन्तु) (यः) (अस्मान्) (द्वेष्टि) (यम्) (च) (वयम्) (द्विष्मः) अप्रीतयामः ॥१९ ॥