यद्दे॑वा देव॒हेड॑नं॒ देवा॑सश्चकृ॒मा व॒यम्। अ॒ग्निर्मा॒ तस्मा॒देन॑सो॒ विश्वा॑न्मुञ्च॒त्वꣳह॑सः ॥१४ ॥
यत्। दे॒वाः॒। दे॒व॒हेड॑न॒मिति॑ देव॒ऽहेड॑नम्। देवा॑सः। च॒कृ॒म। व॒यम्। अ॒ग्निः। मा॒। तस्मा॑त्। एन॑सः। विश्वा॑त्। मु॒ञ्च॒तु॒। अꣳह॑सः ॥१४ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(यत्) ये (देवाः) अध्यापकोपदेशका विद्वांसः (देवहेडनम्) देवानां हेडनमनादरम् (देवासः) विद्वांसः (चकृम) कुर्याम। अत्र संहितायाम् [अष्टा०६.३.११४] इति दीर्घः। (वयम्) (अग्निः) अग्निरिव सर्वासु विद्यासु देदीप्यमानो विद्वान् (मा) माम् (तस्मात्) (एनसः) अपराधात् (विश्वात्) समग्रात् (मुञ्चतु) पृथक् करोतु (अंहसः) दुष्टाद् व्यसनात् ॥१४ ॥
