अस्क॑न्नम॒द्य दे॒वेभ्य॒ऽआज्य॒ꣳ संभ्रि॑यास॒मङ्घ्रि॑णा विष्णो॒ मा त्वाव॑क्रमिषं॒ वसु॑मतीमग्ने ते छा॒यामुप॑स्थेषं॒ विष्णो॒ स्थान॑मसी॒तऽइन्द्रो॑ वी॒र्य्य᳖मकृणोदू॒र्ध्वो᳖ऽध्व॒रऽआस्था॑त् ॥८॥
अस्क॑न्नम्। अ॒द्य। दे॒वेभ्यः॑। आज्य॑म्। सम्। भ्रि॒या॒स॒म्। अङ्घ्रि॑णा। वि॒ष्णो॒ऽइति॑ विष्णो। मा। त्वा॒। अव॑। क्र॒मि॒ष॒म्। वसु॑मती॒मिति॒ वसु॑ऽमतीम्। अ॒ग्ने॒। ते॒। छा॒याम्। उप॑। स्थे॒ष॒म्। विष्णोः॑। स्थान॑म्। अ॒सि॒। इ॒तः। इन्द्रः॑। वी॒र्य्य᳖म्। अ॒कृ॒णो॒त्। ऊ॒र्ध्वः। अ॒ध्व॒रः। आ। अ॒स्था॒त् ॥८॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर भी उक्त यज्ञ कैसा होकर क्या करता है, सो अगले मन्त्र में प्रकाश किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनः स कीदृशो भूत्वा किं करोतीत्युपदिश्यते ॥
(अस्कन्नम्) अविक्षुब्धम् (अद्य) अस्मिन्नहनि (देवेभ्यः) दिव्यसुखानां प्राप्तये (आज्यम्) घृतादिकम् (सम्) क्रियायोगे (भ्रियासम्) धारयेयम् (सम्) क्रियायोगे (अङ्घ्रिणा) गमनसाधनेनाग्निना (विष्णो) व्यापकेश्वर (मा) निषेधार्थे (त्वा) तं वा (अव) अवेति विनिग्रहार्थीयः (निरु०१.३) (क्रमिषम्) उल्लङ्घयेयम्। अत्र लिङर्थे लुङ् (वसुमतीम्) वसूनि बहूनि वस्तूनि भवन्ति यस्यां ताम्। अत्र भूम्न्यर्थे मतुप्। (अग्ने) परमेश्वर भौतिको वा (ते) तव तस्य वा (छायाम्) आश्रयम् (उप) क्रियार्थे (स्थेषम्) उपपत्सीय। अत्र लिङ्याशिष्यङ् [अष्टा०३.१.८६] इत्यङि कृते छन्दस्युभयथा [अष्टा०३.४.११७] इति सार्वधातुकत्वादियादेश आर्द्धधातुकत्वात् सकारलोपो न भवति (विष्णोः) यज्ञस्य (स्थानम्) स्थित्यर्थम् (असि) भवति। अत्र व्यत्ययः (इतः) स्थानात् (इन्द्रः) सूर्य्यो वायुर्वा (वीर्य्यम्) वीरस्य कर्म पराक्रमं वा (अकृणोत्) करोति। अत्र लडर्थे लङ् (ऊर्ध्वः) आकाशस्थः सन् (अध्वरः) यज्ञः (आ) समन्तात् (अस्थात्) तिष्ठति। अत्र लडर्थे लुङ् ॥ अयं मन्त्रः (शत०१.४.१.१-३) व्याख्यातः ॥८॥