वे॒दो᳖ऽसि॒ येन॒ त्वं दे॑व वेद दे॒वेभ्यो॑ वे॒दोऽभ॑व॒स्तेन॒ मह्यं॑ वे॒दो भूयाः॑। देवा॑ गातुविदो गा॒तुं वि॒त्त्वा गा॒तुमि॑त। मन॑सस्पतऽइ॒मं दे॑व य॒ज्ञꣳ स्वाहा॒ वाते॑ धाः ॥२१॥
वे॒दः। अ॒सि॒। येन॑। त्वम्। दे॒व॒। वे॒द॒। दे॒वेभ्यः॑। वे॒दः। अभ॑वः। तेन॑। मह्य॑म्। वे॒दः॒। भू॒याः॒। देवाः॑। गा॒तु॒वि॒द॒ इति॑ गातुऽविदः। गा॒तुम्। वि॒त्त्वा। गा॒तुम्। इ॒त॒। मन॑सः। प॒ते॒। इ॒मम्। दे॒व॒। य॒ज्ञम्। स्वाहा॑। वाते॑। धाः॒ ॥२१॥
हिन्दी - स्वामी दयानन्द सरस्वती
सो जगदीश्वर कैसा है। सो इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
स जगदीश्वरः कीदृशोऽस्तीत्युपदिश्यते ॥
(वेदः) वेत्ति चराचरं जगत् स जगदीश्वरः। विदन्ति येन स ऋग्वेदादिर्वा (असि) भवसि वा (येन) विज्ञानेन वेदेन वा (त्वम्) (देव) शुभगुणदातः (वेदः) जानासि वेत्ति वा (देवेभ्यः) विद्वद्भ्यः (वेदः) वेदयिता (अभवः) भवसि (तेन) विज्ञानप्रकाशनेन (मह्यम्) विज्ञानं जिज्ञासवे (वेदः) ज्ञापकः (भूयाः) (देवाः) विद्वांसः (गातुविदः) गीयते स्तूयतेऽनया सा गातुः स्तुतिस्तस्या विदो वक्तारः। कमिमनिजनि० (उणा०१.७३) अनेन गा स्तुताविस्यस्मात् तुः प्रत्ययः (गातुम्) गीयते ज्ञायते येन स गातुर्वेदस्तम्। गातुरिति पदनामसु पठितम् (निघं०४.१) अनेन ज्ञानार्थो गृह्यते (वित्त्वा) लब्ध्वा (गातुम्) गीयते शब्द्यते यस्तं यज्ञम् (इत) प्राप्नुत (मनसः) विज्ञानस्य (पते) पालक (इमम्) प्रत्यक्षमनुष्ठितमनुष्ठातव्यं वा (देव) सर्वजगत्प्रकाशक (यज्ञम्) क्रियाकाण्डजन्यं संसारम् (स्वाहा) सुष्ठु आहुतं हविः करोत्यनया सा (वाते) वायौ (धाः) धापय धापयति वा। अत्र सर्वत्र पक्षान्तरे व्यत्ययेन प्रथमः। बहुलं छन्दस्यमाङ्योगेऽपि [अष्टा०६.४.७५] इत्यडभावः ॥ अयं मन्त्रः (शत०१.९.२.२१-२८) व्याख्यातः ॥२१॥