य प॑रि॒धिं प॒र्य्यध॑त्था॒ऽअग्ने॑ देवप॒णिभि॑र्गु॒ह्यमा॑नः। तं त॑ऽए॒तमनु॒ जोषं॑ भराम्ये॒ष मेत्त्वद॑पचे॒तया॑ताऽअ॒ग्नेः प्रि॒यं पाथो॑ऽपी॑तम् ॥१७॥
यम्। प॑रि॒धिम्। परि॒। अध॑त्थाः। अग्ने॑। दे॒व॒। प॒णिभि॒रिति॑ प॒णिऽभिः॑। गु॒ह्यमा॑नः। तम्। ते॒। ए॒तम्। अनु॑। जोष॑म्। भ॒रा॒मि॒। ए॒षः। मा। इत्। त्वत्। अ॒प॒। चे॒तया॑तै। अ॒ग्नेः। प्रि॒यम्। पाथः॑। अपी॑तम् ॥१७॥
हिन्दी - स्वामी दयानन्द सरस्वती
उक्त अग्नि कैसा है, जो अगले मन्त्र में प्रकाश किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
सोऽग्निः कीदृश इत्युपदिश्यते ॥
(यम्) एतद्गुणविशिष्टम् (परिधिम्) परितः सर्वतो धीयते यस्मिँस्तम् (पर्य्यधत्थाः) सर्वतो दधामि दधाति वा। अत्र लडर्थे लङ्, पक्षे व्यत्ययश्च (अग्ने) सर्वत्र व्यापकेश्वर ! भौतिको वा (देवपणिभिः) देवानां दिव्यगुणवतामग्निपृथिव्यादीनां विदुषां वा पणयो व्यवहाराः स्तुतयश्च ताभिः (गुह्यमानः) सम्यक् व्रियमाणः (तम्) परिधिम् (ते) तव (एतम्) यथोक्तम् (अनु) पश्चादर्थे। अन्विति सादृश्यापरभावं प्राह (निरु०१.३) (जोषम्) जुष्यते प्रीत्या सेव्यते तम् (भरामि) धारयामि (एषः) परिधिरहं वा (मा) प्रतिषेधे (इत्) एव (त्वत्) अन्तर्यामिनो जगदीश्वरात् तस्मादग्नेर्वा (अप) दूरार्थे (चेतयातै) चेतयेत्। चिती संज्ञाने इति ण्यन्तस्य लेटः प्रथमपुरुषस्यैकवचने प्रयोगोऽयम् (अग्नेः) जगदीश्वरस्य भौतिकस्य वा (प्रियम्) प्रीतिजनकम् (पाथः) पाति शरीरमात्मानं च येन तत्तदन्नम्। अन्ने च (उणा०४.२०४) अनेन पातेरन्नेऽसुन् प्रत्ययः, थुडागमश्च (अपीतम्) अपि संयोगे। अपीति संसर्गं प्राह (निरु०१.३) इतं प्राप्तम् ॥ अयं मन्त्रः (शत०१.८.३.२२) व्याख्यातः ॥१७॥