सर॑स्वती॒ मन॑सा पेश॒लं वसु॒ नास॑त्याभ्यां वयति दर्श॒तं वपुः॑। रसं॑ परि॒स्रुता॒ न रोहि॑तं न॒ग्नहु॒र्धीर॒स्तस॑रं॒ न वेम॑ ॥८३ ॥
सर॑स्वती। मन॑सा। पे॒श॒लम्। वसु॑। नास॑त्याभ्याम्। व॒य॒ति॒। द॒र्श॒तम्। वपुः॑। रस॑म्। प॒रि॒स्रुतेति॑ परि॒ऽस्रुता॑। न। रोहि॑तम्। न॒ग्नहुः॑। धीरः॑। तस॑रम्। न। वेम॑ ॥८३ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
विद्वानों के समान अन्यों को आचरण करना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
विद्वद्वदितरैराचरणीयमित्याह ॥
(सरस्वती) प्रशस्तं सरो विज्ञानं विद्यते यस्याः सा (मनसा) विज्ञानेन (पेशलम्) उत्तमाङ्गवत् (वसु) द्रव्यम् (नासत्याभ्याम्) न विद्यते असत्यं ययोस्ताभ्यां मातापितृभ्याम् (वयति) विस्तृणाति (दर्शतम्) दर्शनीयम् (वपुः) शरीरमुदकं वा। वपुरित्युदकनामसु पठितम् ॥ (निघं०१.१२) (रसम्) आनन्दम् (परिस्रुता) परितः सर्वतः स्रुतम्। अत्र सुपां सुलुग्० [अष्टा०७.१.३९] इत्याकारादेशः (न) इव (रोहितम्) प्रादुर्भूतम् (नग्नहुः) नग्नं शुद्धं जुहोति गृह्णाति सः (धीरः) ध्यानशीलः (तसरम्) तस्यत्युपक्षयति दुःखानि येन तम् (न) इव (वेम) प्रजननम् ॥८३ ॥