दृ॒ष्ट्वा रू॒पे व्याक॑रोत् सत्यानृ॒ते प्र॒जाप॑तिः। अश्र॑द्धा॒मनृ॒तेऽद॑धाच्छ्र॒द्धा स॒त्ये प्र॒जाप॑तिः। ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पान॑ꣳ शु॒क्रमन्ध॑स॒ऽइन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृ॒तं मधु॑ ॥७७ ॥
दृ॒ष्ट्वा। रू॒पेऽइति॑ रू॒पे। वि। आ। अ॒क॒रो॒त्। स॒त्या॒नृ॒ते इति॑ सत्यऽअनृ॒ते। प्र॒जाप॑ति॒रिति॑ प्र॒जाऽप॑तिः। अश्र॑द्धाम्। अनृ॑ते। अद॑धात्। श्र॒द्धाम्। स॒त्ये। प्र॒जाप॑ति॒रिति॑ प्र॒जाऽप॑तिः। ऋ॒तेन॑। स॒त्यम्। इ॒न्द्रि॒यम्। वि॒पान॒मिति॑ वि॒ऽपान॑म्। शु॒क्रम्। अन्ध॑सः। इन्द्र॑स्य। इ॒न्द्रि॒यम्। इ॒दम्। पयः॑। अ॒मृत॑म्। मधु॑ ॥७७ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
अब धर्म-अधर्म कैसे हैं, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अथ धर्माधर्मौ कीदृशावित्युपदिश्यते ॥
(दृष्ट्वा) संप्रेक्ष्य (रूपे) निरूपिते (वि) (आ) (अकरोत्) करोति (सत्यानृते) सत्यं चानृतं च ते (प्रजापतिः) प्रजायाः पालकः (अश्रद्धाम्) अप्रीतिम् (अनृते) अविद्यमानमृतं यस्मिँस्तस्मिन्नधर्मे (अदधात्) दधाति (श्रद्धाम्) श्रत् सत्यं दधाति यया ताम् (सत्ये) सत्सु भवे (प्रजापतिः) परमेश्वरः (ऋतेन) यथार्थेन (सत्यम्) (इन्द्रियम्) चित्तम् (विपानम्) विविधरक्षणम् (शुक्रम्) शुद्धिकरम् (अन्धसः) अधर्माऽऽचरणस्य नाशकम् (इन्द्रस्य) परमैश्वर्यवतो धर्मस्य प्रापकम् (इन्द्रियम्) विज्ञानसाधकम् (इदम्) (पयः) सुखप्रदम् (अमृतम्) मृत्युरोगात् पृथक्करम् (मधु) मन्तव्यम् ॥७७ ॥