अद्भ्यः क्षी॒रं व्य॑पिब॒त् क्रुङ्ङा॑ङ्गिर॒सो धि॒या। ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पान॑ꣳशु॒क्रमन्ध॑स॒ऽइन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑ ॥७३ ॥
अ॒द्भ्य इत्य॒त्ऽभ्यः। क्षी॒रम्। वि। अ॒पि॒ब॒त्। क्रुङ्। आ॒ङ्गि॒र॒सः। धि॒या। ऋ॒तेन॑। स॒त्यम्। इ॒न्द्रि॒यम्। वि॒पान॒मिति॑ वि॒ऽपान॑म्। शु॒क्रम्। अन्ध॑सः। इन्द्र॑स्य। इ॒न्द्रि॒यम्। इ॒दम्। पयः॑। अमृत॑म्। मधु॑ ॥७३ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
कौन पुरुष विज्ञान को प्राप्त होते हैं, इस विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
के जना विज्ञानमाप्नुवन्तीत्याह ॥
(अद्भ्यः) जलेभ्यः (क्षीरम्) दुग्धम् (वि) (अपिबत्) पिबेत् (क्रुङ्) यथा पक्षी अल्पमल्पं पिबति तथा (आङ्गिरसः) अङ्गिरसो विदुषा कृतो विद्वान् (धिया) कर्मणा (ऋतेन) यथार्थेन योगाभ्यासेन (सत्यम्) अविनश्वरम् (इन्द्रियम्) दिव्यां वाचम् (विपानम्) विविधशब्दार्थसम्बन्धयुक्ताम् (शुक्रम्) पवित्राम् (अन्धसः) अन्नादियोगात् (इन्द्रस्य) परमैश्वर्ययुक्तस्य (इन्द्रियम्) दिव्यं श्रोत्रम् (इदम्) प्रत्यक्षम् (पयः) रसम् (अमृतम्) रोगनाशकम् (मधु) मधुरम् ॥७३ ॥