उदी॑रता॒मव॑र॒ऽउत्परा॑स॒ऽउन्म॑ध्य॒माः पि॒तरः॑ सो॒म्यासः॑। असुं॒ यऽई॒युर॑वृ॒काऽऋ॑त॒ज्ञास्ते नो॑ऽवन्तु पि॒तरो॒ हवे॑षु ॥४९ ॥
उत्। ई॒र॒ता॒म्। अव॑रे। उत्। परा॑सः। उत्। म॒ध्य॒माः। पि॒तरः॑। सो॒म्यासः॑। असु॑म्। ये। ई॒युः। अ॒वृ॒काः। ऋ॒त॒ज्ञा इत्यृ॑त॒ऽज्ञाः। ते। नः॒। अ॒व॒न्तु॒। पि॒तरः॑। हवे॑षु ॥४९ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
पिता आदि को कैसे होकर क्या करना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पितृभिः किम्भूतैः किं कार्य्यमित्याह ॥
(उत्) (ईरताम्) प्रेरताम् (अवरे) अर्वाचीनाः (उत्) (परासः) प्रकृष्टाः (उत्) (मध्यमाः) मध्ये भवाः (पितरः) पालकाः (सोम्यासः) सौम्यगुणसम्पन्नाः (असुम्) प्राणम् (ये) (ईयुः) प्राप्नुयुः (अवृकाः) अविद्यमाना वृकाश्चौरा येषु ते (ऋतज्ञाः) ये ऋतं सत्यं जानन्ति (ते) (नः) अस्मान् (अवन्तु) रक्षन्तु (पितरः) रक्षितारः (हवेषु) संग्रामादिषु व्यवहारेषु ॥४९ ॥