ये स॑मा॒नाः सम॑नसः पि॒तरो॑ यम॒राज्ये॑। तेषां॑ लो॒कः स्व॒धा नमो॑ य॒ज्ञो दे॒वेषु॑ कल्पताम् ॥४५ ॥
ये। स॒मा॒नाः। सम॑नस॒ इति॒ सऽम॑नसः। पि॒तरः॑। य॒म॒राज्य॒ इति॑ यम॒ऽराज्ये॑। तेषा॑म्। लो॒कः। स्व॒धा। नमः॑। य॒ज्ञः। दे॒वेषु॑। क॒ल्प॒ता॒म् ॥४५ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
कहाँ मनुष्य सुखपूर्वक निवास करते हैं, इस विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
कुत्र जनाः सुखं निवसन्तीत्याह ॥
(ये) (समानाः) सदृशाः (समनसः) समानं मनो विज्ञानं येषां ते (पितरः) प्रजापालकाः (यमराज्ये) यमस्य सभाधीशस्य राष्ट्रे (तेषाम्) (लोकः) सभादर्शनं वा (स्वधा) अन्नम् (नमः) सत्करणम् (यज्ञः) संगन्तव्यो न्यायः (देवेषु) विद्वत्सु (कल्पताम्) समर्थितोऽस्तु ॥४५ ॥
