आ श्रा॑व॒येति॑ स्तो॒त्रियाः॑ प्रत्याश्रा॒वोऽअनु॑रूपः। यजेति॑ धाय्यारू॒पं प्र॑गा॒था ये॑यजाम॒हाः ॥२४ ॥
आ। श्रा॒व॒य॒ इति॑। स्तो॒त्रियाः॑। प्र॒त्या॒श्रा॒व इति॑ प्रतिऽआश्रा॒वः। अनु॑रूप॒ इत्यनु॑ऽरूपः। यजा॒इति॑। धा॒य्या॒रू॒पमिति॑ धाय्याऽरू॒पम्। प्र॒गा॒था इति॑ प्रऽगा॒थाः। ये॒य॒जा॒म॒हा इति॑ येऽयजाम॒हाः ॥२४ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
कैसे विद्वान् होते हैं, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
कथं विद्वांसो भवन्तीत्युपदिश्यते ॥
(आ) समन्तात् (श्रावय) विद्योपदेशान् कुरु (इति) प्रकारार्थे (स्तोत्रियाः) ये स्तोत्राण्यर्हन्ति ते (प्रत्याश्रावः) यः प्रतिश्राव्यते सः (अनुरूपः) अनुकूलः (यजा इति) (धाय्यारूपम्) या धेयमर्हा तस्या रूपम् (प्रगाथाः) ये प्रकर्षेण गीयन्ते ते (येयजामहाः) ये भृशं यजन्ति ते ॥२४ ॥