व॒यं ते॑ऽअ॒द्य र॑रि॒मा हि काम॑मुत्ता॒नह॑स्ता॒ नम॑सोप॒सद्य॑। यजि॑ष्ठेन॒ मन॑सा यक्षि दे॒वानस्रे॑धता॒ मन्म॑ना॒ विप्रो॑ऽअग्ने ॥७५ ॥
व॒यम्। ते॒। अ॒द्य। र॒रि॒म। हि। काम॑म्। उ॒त्ता॒नह॑स्ता॒ इत्यु॑त्ता॒नऽह॑स्ताः। नम॑सा। उ॒प॒सद्येत्यु॑प॒ऽसद्य॑। यजि॑ष्ठेन। मन॑सा। य॒क्षि॒। दे॒वान्। अस्रे॑धता। मन्म॑ना। विप्रः॑। अ॒ग्ने॒ ॥७५ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
पुरुषार्थ से क्या सिद्ध करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुरुषार्थेन किं साध्यमित्याह ॥
(वयम्) (ते) तव (अद्य) अस्मिन् दिने (ररिम) दद्मः। रा दाने लिट्। अन्येषामपि दृश्यते [अष्टा०६.३.१३७] इति दीर्घः। (हि) खलु (कामम्) (उत्तानहस्ताः) उत्तानावूर्ध्वगतावभयदातारौ हस्तौ येषां ते (नमसा) सत्कारेण (उपसद्य) सामीप्यं प्राप्य (यजिष्ठेन) अतिशयेन यष्टृ संगन्तृ तेन (मनसा) विज्ञानेन (यक्षि) यजसि (देवान्) विदुषः (अस्रेधता) इतस्ततो गमनरहितेन स्थिरेण (मन्मना) येन मन्यते विजानाति तेन (विप्रः) मेधावी (अग्ने) विद्वन् ॥७५ ॥