यत्र॒ धारा॒ऽअन॑पेता॒ मधो॑र्घृ॒तस्य॑ च॒ याः। तद॒ग्निर्वै॑श्वकर्म॒णः स्व॑र्दे॒वेषु॑ नो दधत् ॥६५ ॥
यत्र॑। धाराः॑। अन॑पेता॒ इत्यन॑पऽइताः। मधोः॑। घृ॒तस्य॑। च॒। याः। तत्। अ॒ग्निः। वै॒श्व॒क॒र्म॒ण इति॑ वैश्वऽकर्म॒णः। स्वः॑। दे॒वेषु॑। नः॒। द॒ध॒त् ॥६५ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर मनुष्यों को क्या करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनर्मनुष्याः किं कुर्युरित्याह ॥
(यत्र) यज्ञे (धाराः) प्रवाहा (अनपेताः) नापेताः पृथग्भूताः (मधोः) मधुरगुणान्वितस्य द्रव्यस्य (घृतस्य) आज्यस्य (च) (याः) (तत्) ताभिः (अग्निः) पावकः (वैश्वकर्मणः) विश्वान्यखिलानि कर्माणि यस्मात् स एव (स्वः) सुखम् (देवेषु) दिव्येषु व्यवहारेषु (नः) अस्मभ्यम् (दधत्) दधाति। दधातेर्लेटो रूपम् ॥६५ ॥
