येन॒ वह॑सि स॒हस्रं॒ येना॑ग्ने सर्ववेद॒सम्। तेने॒मं य॒ज्ञं नो॑ नय॒ स्व᳖र्दे॒वेषु॒ गन्त॑वे ॥६२ ॥
येन॑। वह॑सि। स॒हस्र॑म्। येन॑। अ॒ग्ने॒। स॒र्व॒वे॒द॒समिति॑ सर्वऽवेद॒सम्। तेन॑। इ॒मम्। य॒ज्ञम्। नः॒। न॒य॒। स्वः᳖। दे॒वेषु॑। गन्त॑वे ॥६२ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनः स एव विषयः प्रकाश्यते ॥
(येन) अध्यापनेन (वहसि) प्राप्नोषि (सहस्रम्) असंख्यमतुलं बोधम् (येन) अध्ययनेन (अग्ने) अध्यापकाध्येतर्वा (सर्ववेदसम्) सर्वे वेदसो वेदा विज्ञायन्ते यस्मिँस्तम् (तेन) (इमम्) वक्ष्यमाणम् (यज्ञम्) अध्ययनाध्यापनाख्यम् (नः) अस्मान् (नय) प्राप्नुहि प्रापय वा (स्वः) सुखम् (देवेषु) दिव्येषु गुणेषु विद्वत्सु वा (गन्तवे) गन्तुं प्राप्तुम् ॥६२ ॥
