ऋ॒तं च॑ मे॒ऽमृतं॑ च मेऽय॒क्ष्मं च॒ मेऽना॑मयच्च मे जी॒वातु॑श्च मे दीर्घायु॒त्वं च॑ मेऽनमि॒त्रं च॒ मेऽभ॑यं च मे सु॒खं च॑ मे॒ शय॑नं च मे सू॒षाश्च॑ मे सु॒दिनं॑ च मे य॒ज्ञेन॑ कल्पन्ताम् ॥६ ॥
ऋ॒तम्। च॒। मे॒। अ॒मृत॑म्। च॒। मे॒। अ॒य॒क्ष्मम्। च॒। मे॒। अना॑मयत्। च॒। मे॒। जी॒वातुः॑। च॒। मे॒। दी॒र्घा॒यु॒त्वमिति॑ दीर्घायु॒ऽत्वम्। च॒। मे॒। अ॒न॒मि॒त्रम्। च॒। मे॒। अभ॑यम्। च॒। मे॒। सु॒खमिति॑ सु॒ऽखम्। च॒। मे॒। शय॑नम्। च॒। सू॒षा इति॑ सुऽउ॒षाः। च॒। मे॒। सु॒दिन॒मिति॑ सु॒ऽदिन॑म्। च॒। मे॒। य॒ज्ञेन॑। क॒ल्प॒न्ता॒म् ॥६ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(ऋतम्) यथार्थविज्ञानम् (च) एतत्साधकम् (मे) (अमृतम्) स्वस्वरूपं मुक्तिसुखं यज्ञशिष्टमन्नं वा (च) पेयम् (मे) (अयक्ष्मम्) यक्ष्मादिरोगरहितं शरीरादिकम् (च) एतत्साधकं कर्म (मे) (अनामयत्) रोगादिरहितम् (च) एतत्साधकमौषधम् (मे) (जीवातुः) येन जीवन्ति यज्जीवयति वा (च) पथ्यादिकम् (मे) (दीर्घायुत्वम्) चिरायुषो भावः (च) ब्रह्मचर्यजितेन्द्रियत्वादिकम् (मे) (अनमित्रम्) अविद्यमानशत्रुः (च) पक्षपातरहितं कर्म (मे) (अभयम्) भयराहित्यम् (च) शौर्यम् (मे) (सुखम्) परमानन्दः प्रसन्नता (च) एतत्साधकं कर्म (मे) (शयनम्) (च) एतत्साधनम् (मे) (सूषाः) शोभना उषा यस्मिन् स कालः (च) एतत्सम्बन्धि कर्म (मे) (सुदिनम्) शोभनम् च तद्दिनं च तत् (च) एतदुपयोगि कर्म (मे) (यज्ञेन) सत्यभाषणादिव्यवहारेण (कल्पन्ताम्) समर्था भवन्तु ॥६ ॥