इ॒ष्टो य॒ज्ञो भृगु॑भिराशी॒र्दा वसु॑भिः। तस्य॑ न इ॒ष्टस्य॑ प्री॒तस्य॒ द्रवि॑णे॒हाग॑मेः ॥५६ ॥
इ॒ष्टः। य॒ज्ञः। भृगु॑भि॒रिति॒ भृगु॑ऽभिः। आ॒शी॒र्दा इत्या॑शीः॒ऽदा। वसु॑भि॒रिति॒ वसु॑ऽभिः। तस्य॑। नः। इ॒ष्टस्य॑। प्री॒तस्य॑। द्रवि॑ण। इ॒ह। आ। ग॒मेः ॥५६ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(इष्टः) कृतः (यज्ञः) यष्टुमर्हः (भृगुभिः) परिपक्वविज्ञानैः (आशीर्दाः) य इच्छासिद्धिं ददाति (वसुभिः) प्राथमकल्पिकैर्विद्वद्भिः (तस्य) (नः) अस्माकम् (इष्टस्य) (प्रीतस्य) कमनीयस्य (द्रविण) धनम्। अत्र सुपां सुलुग्० [अष्टा०७.१.३९] इति विभक्तेर्लुक् (इह) संसारे (आ, गमेः) समन्ताद् गच्छ। वा छन्दसि सर्वे विधयो भवन्ति [अ०१.४.९ भा०] इति छत्वाभावः ॥५६ ॥
