आ॒ग्र॒य॒णश्च॑ मे वैश्वदे॒वश्च॑ मे ध्रु॒वश्च॑ मे वैश्वान॒रश्च॑ मऽऐन्द्रा॒ग्नश्च॑ मे म॒हावै॑श्वदेवश्च मे मरुत्व॒तीया॑श्च मे॒ निष्के॑वल्यश्च मे सावि॒त्रश्च॑ मे सारस्व॒तश्च॑ मे पात्नीव॒तश्च॑ मे हारियोज॒नश्च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ॥२० ॥
आ॒ग्र॒य॒णः। च॒। मे॒। वै॒श्व॒दे॒व इति॑ वैश्वऽदे॒वः। च॒। मे॒। ध्रु॒वः। च॒। मे॒। वै॒श्वा॒न॒रः। च॒। मे॒। ऐ॒न्द्रा॒ग्नः। च॒। मे॒। म॒हावै॑श्वदेव॒ इति॑ म॒हाऽवै॑श्वदेवः। च॒। मे॒। म॒रु॒त्व॒तीयाः॑। च॒। मे॒। निष्के॑वल्यः। निःके॑वल्य॒ इति॒ निःऽके॑वल्यः। च॒। मे॒। सा॒वि॒त्रः। च॒। मे॒। सा॒र॒स्व॒तः। च॒। मे॒। पा॒त्नी॒व॒त इति॑ पात्नीऽव॒तः। च॒। मे॒। हा॒रि॒यो॒ज॒न इति॑ हारिऽयोज॒नः। च॒। मे॒। य॒ज्ञेन॑। क॒ल्प॒न्ता॒म् ॥२० ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(आग्रयणः) मार्गशीर्षादिमासनिष्पन्नो यज्ञविशेषः (च) (मे) (वैश्वदेवः) विश्वेषां देवानामयं सम्बन्धी (च) (मे) (ध्रुवः) निश्चलः (च) (मे) (वैश्वानरः) विश्वेषां सर्वेषां नराणामयं सत्कारः (च) (मे) (ऐन्द्राग्नः) इन्द्रो वायुरग्निर्विद्युच्च ताभ्यां निर्वृत्तः (च) (मे) (महावैश्वदेवः) महतां विश्वेषां सर्वेषामयं व्यवहारः (च) (मे) (मरुत्वतीयाः) मरुतां सम्बन्धिनो व्यवहाराः (च) (मे) (निष्केवल्याः) नितरां केवलं सुखं यस्मिंस्तस्मिन् भवः (च) (मे) (सावित्रः) सवितुः सूर्यस्यायं प्रभावः (च) (मे) (सारस्वतः) सरस्वत्या वाण्या अयं सम्बन्धी (च) (मे) (पात्नीवतः) प्रशस्ता पत्नी यज्ञसम्बन्धिनी तद्वतोऽयम् (च) (मे) (हारियोजनः) हरीणामश्वानां योजयिता तस्यायमनुक्रमः (च) (मे) (यज्ञेन) संगतिकरणेन (कल्पन्ताम्) ॥२० ॥