अ॒ग्निश्च॑ म॒ऽआप॑श्च मे वी॒रुध॑श्च म॒ऽओष॑धयश्च मे कृष्टप॒च्याश्च॑ मेऽकृष्टप॒च्याश्च॑ मे ग्रा॒म्याश्च॑ मे प॒शव॑ऽआर॒ण्याश्च॑ मे वि॒त्तञ्च॑ मे॒ वित्ति॑श्च मे भू॒तञ्च॑ मे॒ भूति॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥१४ ॥
अ॒ग्निः। च॒। मे॒। आपः॑। च॒। मे॒। वी॒रुधः॑। च॒। मे॒। ओष॑धयः। च॒। मे॒। कृ॒ष्ट॒प॒च्याः इति॑ कृष्टऽप॒च्याः। च॒। मे॒। अ॒कृ॒ष्ट॒प॒च्या इत्य॑कृष्टऽप॒च्याः। च॒। मे॒। ग्रा॒म्याः। च॒। मे॒। प॒शवः॑। आ॒र॒ण्याः। च॒। मे॒। वि॒त्तम्। च॒। मे॒। वित्तिः॑। च॒। मे॒। भू॒तम्। च॒। मे॒। भूतिः॑। च॒। मे॒। य॒ज्ञेन॑। क॒ल्प॒न्ता॒म् ॥१४ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(अग्निः) वह्निः (च) विद्युदादिः (मे) (आपः) जलानि (च) जलरत्नानि (मे) (वीरुधः) गुल्मविशेषाः (च) तृणशाकादि (मे) (ओषधयः) यवसोमलताद्याः (च) सर्वौषधादि (मे) (कृष्टपच्याः) या कृष्टेषु क्षेत्रेषु पच्यन्ते ताः (च) उत्तमानि शस्यादीनि (मे) (अकृष्टपच्याः) या अकृष्टेषु जङ्गलादिषु पच्यन्ते ताः (च) पर्वतादिषु पक्तव्याः (मे) (ग्राम्याः) ग्रामे भवाः (च) नगरस्थाः (मे) (पशवः) गवाद्याः (आरण्याः) अरण्ये वने भवा मृगादयः (च) सिंहादयः (मे) (वित्तम्) लब्धम् (च) सर्वं धनम् (मे) (वित्तिः) प्राप्तिः (च) प्राप्तव्यम् (मे) (भूतम्) रूपम् (च) नानाविधम् (मे) (भूतिः) ऐश्वर्यम् (च) एतत्साधनम् (मे) (यज्ञेन) सङ्गतिकरणयोग्येन (कल्पन्ताम्) ॥१४ ॥