अ॒भ्य᳖र्षत सुष्टु॒तिं गव्य॑मा॒जिम॒स्मासु॑ भ॒द्रा द्रवि॑णानि धत्त। इ॒मं य॒ज्ञं न॑यत दे॒वता॑ नो घृ॒तस्य॒ धारा॒ मधु॑मत्पवन्ते ॥९८ ॥
अ॒भि। अ॒र्ष॒त॒। सु॒ष्टु॒तिम्। सु॒स्तु॒तिमिति॑ सुऽस्तु॒तिम्। गव्य॑म्। आ॒जिम्। अ॒स्मासु॑। भ॒द्रा। द्रवि॑णानि। ध॒त्त॒। इ॒मम्। य॒ज्ञम्। न॒य॒त॒। दे॒वता॑। नः॒। घृ॒तस्य॑। धाराः॑। मधु॑म॒दिति॒ मधु॑ऽमत्। प॒व॒न्ते॒ ॥९८ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
विवाहित स्त्री-पुरुषों को क्या करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
विवाहितैः स्त्रीपुरुषैः किं कार्यमित्याह ॥
(अभि) सर्वतः (अर्षत) प्राप्नुत (सुष्टुतिम्) शोभनां प्रशंसाम् (गव्यम्) गवि वाचि भवं बोधं धेनौ भवं दुग्धादिकं वा (आजिम्) अजन्ति जानन्ति सुकर्माणि येन तं संग्रामम्। इणजादिभ्यः [उणा०४.१३२] इतीण् प्रत्ययः। (अस्मासु) (भद्रा) कल्याणकराणि (द्रविणानि) (धत्त) (इमम्) (यज्ञम्) संगन्तव्यं गृहाश्रमव्यवहारम् (नयत) प्रापयत (देवता) विद्वांसः। अत्र सुपां सुलुग्० [अष्टा०७.१.३९] इति जसो लुक्। (नः) अस्मान् (घृतस्य) प्रदीप्तस्य विज्ञानस्य सम्बन्धिन्यः (धाराः) सुशिक्षिता वाचः (मधुमत्) बहु मधु विद्यते यस्मिंस्तद् यथा स्यात् तथा (पवन्ते) प्राप्नुवन्ति ॥९८ ॥