व॒यं नाम॒ प्रं ब्र॑वामा घृ॒तस्या॒स्मिन् य॒ज्ञे धा॑रयामा॒ नमो॑भिः। उप॑ ब्रह्मा॒ शृ॑णवच्छ॒स्यमा॑नं॒ चतुः॑शृङ्गोऽवमीद् गौ॒रऽए॒तत् ॥९० ॥
व॒यम्। नाम॑। प्र। ब्र॒वा॒म॒। घृ॒तस्य॑। अ॒स्मिन्। य॒ज्ञे। धा॒र॒या॒म॒। नमो॑भिरिति॒ नमः॑ऽभिः। उप॑। ब्र॒ह्मा। शृ॒ण॒व॒त्। श॒स्यमा॑नम्। चतुः॑शृङ्ग॒ इति॒ चतुः॑ऽशृङ्गः। अ॒व॒मी॒त्। गौ॒रः। ए॒तत् ॥९० ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(वयम्) (नाम) पदार्थानां संज्ञाम् (प्र, ब्रवाम) उपदिशेम (घृतस्य) आज्यस्य जलस्य वा (अस्मिन्) (यज्ञे) गृहाश्रमव्यवहारे (धारयाम) अत्र अन्येषामपि० [अष्टा०६.३.१३७] इति दीर्घः। (नमोभिः) अन्नादिभिः (उप) (ब्रह्मा) चतुर्वेदवित् (शृणवत्) शृणुयात् (शस्यमानम्) प्रशंसितं सत् (चतुःशृङ्गः) चत्वारो वेदाः शृङ्गवदुत्तमा यस्य सः (अवमीत्) उपदिशेत् (गौरः) यो वेदविद्यावाचि रमते स एव (एतत्) ॥९० ॥