ई॒दृङ् चा॑न्या॒दृङ् च॑ स॒दृङ् च॒ प्रति॑सदृङ् च। मि॒तश्च॒ सम्मि॑तश्च॒ सभ॑राः ॥८१ ॥
ई॒दृङ्। च॒। अ॒न्या॒दृङ्। च॒। स॒दृङ्। स॒दृङिति॑ स॒ऽदृङ्। च॒। प्रति॑सदृ॒ङ्ङिति॒ प्रति॑ऽसदृङ्। च॒। मि॒तः। च॒। सम्मि॑त॒ इति॒ सम्ऽमि॑तः। च॒। सभ॑रा॒ इति॒ सऽभ॑राः ॥८१ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर विद्वान् कैसा हो, यह विषय अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनर्विद्वान् कीदृशो भवेदित्याह ॥
(ईदृङ्) अनेन तुल्यः (च) (अन्यादृङ्) अन्येन समानः (च) (सदृङ्) समानं पश्यति स सदृङ् (च) (प्रतिसदृङ्) तं तं प्रति सदृशं पश्यति (च) (मितः) मानं प्राप्तः (च) (सम्मितः) सम्यक् परिमितः (च) (सभराः) समानं बिभ्रतीति सभराः ॥८१ ॥
