आ॒जुह्वा॑नः सु॒प्रती॑कः पु॒रस्ता॒दग्ने॒ स्वं योनि॒मासी॑द साधु॒या। अ॒स्मिन्त्स॒धस्थे॒ऽअध्युत्त॑रस्मि॒न् विश्वे॑ देवा॒ यज॑मानश्च सीदत ॥७३ ॥
आ॒जुह्वा॑न॒ इत्या॒जुऽह्वा॑नः। सु॒प्रती॑क॒ इति॑ सु॒ऽप्रती॑कः। पु॒रस्ता॑त्। अग्ने॑। स्वम्। योनि॑म्। आ। सी॒द॒। सा॒धु॒येति॑ साधु॒ऽया। अ॒स्मिन्। स॒धस्थे॑। अधि॑। उत्त॑रस्मिन्। विश्वे॑। दे॒वाः॒। यज॑मानः। च॒। सी॒द॒त॒ ॥७३ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर विद्वान्, गुणी जन कैसे हों, यह विषय अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनर्विद्वांसः कीदृशाः स्युरित्याह ॥
(आजुह्वानः) सत्कारेणाहूतः (सुप्रतीकः) प्राप्तशुभगुणः (पुरस्तात्) प्रथमतः (अग्ने) योगाभ्यासेन प्रकाशितात्मन् (स्वम्) स्वकीयम् (योनिम्) परमात्माख्यं गृहम् (आ) (सीद) समन्तात् स्थिरो भव (साधुया) श्रेष्ठैः कर्मभिः (अस्मिन्) (सधस्थे) सहस्थाने (अधि) उपरिभावे (उत्तरस्मिन्) (विश्वे) सर्वे (देवाः) दिव्यात्मानो योगिनः (यजमानः) योगप्रद आचार्यः (च) (सीदत) ॥७३ ॥