क्रम॑ध्वम॒ग्निना॒ नाक॒मुख्य॒ꣳ हस्ते॑षु॒ बिभ्र॑तः। दि॒वस्पृ॒ष्ठ स्व॑र्ग॒त्वा मि॒श्रा दे॒वेभि॑राध्वम् ॥६५ ॥
क्रमध्वम्। अ॒ग्निना॑। नाक॑म्। उख्य॑म्। हस्ते॑षु। बिभ्र॑तः। दि॒वः। पृ॒ष्ठम्। स्वः॑। ग॒त्वा। मि॒श्राः। दे॒वेभिः॑। आ॒ध्व॒म् ॥६५ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर भी उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(क्रमध्वम्) पराक्रमं कुरुत (अग्निना) विद्युता (नाकम्) अविद्यमानदुःखम् (उख्यम्) उखायां संस्कृतं भक्ष्यमोदनादिकम्। अत्र शूलोखाद्यत् ॥ (अष्टा०४.२.१६) अनेन संस्कृतं भक्षा इत्यर्थे यत् (हस्तेषु) (बिभ्रतः) धरन्तः (दिवः) न्यायविनयादिप्रकाशजातस्य (पृष्ठम्) ज्ञीप्सितम् (स्वः) सुखम् (गत्वा) प्राप्य (मिश्राः) मिलिताः (देवेभिः) विद्वद्भिः (आध्वम्) उपविशत ॥६५ ॥
