उ॒क्षा स॑मु॒द्रोऽअ॑रु॒णः सु॑प॒र्णः पूर्व॑स्य॒ योनिं॑ पि॒तुरावि॑वेश। मध्ये॑ दि॒वो निहि॑तः॒ पृश्नि॒रश्मा॒ वि च॑क्रमे॒ रज॑सस्पा॒त्यन्तौ॑ ॥६० ॥
उ॒क्षा। स॒मु॒द्रः। अ॒रु॒णः। सु॒प॒र्ण इति॑ सुऽप॒र्णः। पूर्व॑स्य। योनि॑म्। पि॒तुः। आ। वि॒वे॒श॒। मध्ये॑। दि॒वः। निहि॑त॒ इति॒ निऽहि॑तः। पृश्निः॑। अश्मा॑। वि। च॒क्र॒मे॒। रज॑सः। पा॒ति॒। अन्तौ॑ ॥६० ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(उक्षा) वृष्ट्या सेचकः (समुद्रः) सम्यग् द्रवन्त्यापो यस्मात् सः (अरुणः) आरक्तः (सुपर्णः) शोभनानि पर्णानि पालनानि यस्मात् (पूर्वस्य) पूर्णस्य (योनिम्) कारणम् (पितुः) उत्पादिकाया विद्युतः (आ) (विवेश) प्रविशति (मध्ये) (दिवः) प्रकाशमयस्य (निहितः) ईश्वरेण स्थापितः (पृश्निः) विचित्रवर्णः सूर्य्यः (अश्मा) अश्नुते व्याप्नोति स मेघः। अश्मेति मेघनामसु पठितम् ॥ (निघं०१.१०) (वि) (चक्रमे) विविधतया क्रमते (रजसः) लोकान् (पाति) रक्षति (अन्तौ) बन्धने ॥६० ॥