उदु॑ त्वा॒ विश्वे॑ दे॒वाऽअग्ने॒ भर॑न्तु॒ चित्ति॑भिः। स नो॑ भव शि॒वस्त्वꣳ सु॒प्रती॑को वि॒भाव॑सुः ॥५३ ॥
उत्। ऊँ॒ऽइत्यूँ॑। त्वा॒। विश्वे॑। दे॒वाः। अग्ने॑। भर॑न्तु॒। चित्ति॑भि॒रिति॒ चित्ति॑ऽभिः। सः। नः॒। भ॒व॒। शि॒वः। त्वम्। सु॒प्रती॑क॒ इति॑ सु॒ऽप्रती॑कः। वि॒भाव॑सु॒रिति॑ वि॒भाऽव॑सुः ॥५३ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
अब सभापति के विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अथ सभापतिविषयमाह ॥
(उत्) (उ) (त्वा) त्वाम् (विश्वे) सर्वे (देवाः) विद्वांसः (अग्ने) विद्वन् (भरन्तु) धरन्तु (चित्तिभिः) संज्ञानैः (सः) (नः) अस्मभ्यम् (भव) (शिवः) मङ्गलकारी (त्वम्) (सुप्रतीकः) सुष्ठु प्रतीकं प्रतीतिकरं ज्ञानं यस्य सः (विभावसुः) यो विविधासु भासु विद्याप्रकाशेषु वा वसति सः ॥५३ ॥