यस्य॑ कु॒र्मो गृ॒हे ह॒विस्तम॑ग्ने वर्द्धया॒ त्वम्। तस्मै॑ दे॒वाऽअधि॑ब्रुवन्न॒यं च॒ ब्रह्म॑ण॒स्पतिः॑ ॥५२ ॥
यस्य॑। कु॒र्मः। गृ॒हे। ह॒विः। तम्। अ॒ग्ने॒। व॒र्द्ध॒य॒। त्वम्। तस्मै॑। दे॒वाः। अधि॑। ब्रु॒व॒न्। अ॒यम्। च॒। ब्रह्म॑णः। पतिः॑ ॥५२ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
अब पुरोहित ऋत्विज् और यजमान के कृत्य को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अथ पुरोहितर्त्विग्यजमानकृत्यमाह ॥
(यस्य) राज्ञः (कुर्मः) सम्पादयामः (गृहे) (हविः) होमम् (तम्) (अग्ने) विद्वन् पुरोहित (वर्द्धय) अत्र अन्येषामपि० [अष्टा०६.३.१३७] इति दीर्घः (त्वम्) (तस्मै) तं यजमानम्। अत्र व्यत्ययेन चतुर्थी (देवाः) दिव्यगुणा ऋत्विजः (अधि) (ब्रुवन्) अधिकं ब्रुवन्तु। लेट्प्रयोगोऽयम्। (अयम्) (च) (ब्रह्मणः) वेदस्य (पतिः) पालको यजमानः ॥५२ ॥
