इन्द्र॑स्य॒ वृष्णो॒ व॑रुणस्य॒ राज्ञ॑ऽआदि॒त्यानां॑ म॒रुता॒ शर्द्ध॑ऽउ॒ग्रम्। म॒हाम॑नसां भुवनच्य॒वानां॒ घोषो॑ दे॒वानां॒ जय॑ता॒मुद॑स्थात् ॥४१ ॥
इन्द्र॑स्य। वृष्णः॑। वरु॑णस्य। राज्ञः॑। आ॒दि॒त्याना॑म्। म॒रुता॑म्। शर्द्धः॑। उ॒ग्रम्। म॒हाम॑नसा॒मिति॑ म॒हाऽम॑नसाम्। भु॒व॒न॒च्य॒वाना॒मिति॑ भुवनऽच्य॒वाना॑म्। घोषः॑। दे॒वाना॑म्। जय॑ताम्। उत्। अ॒स्था॒त् ॥४१ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर भी उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(इन्द्रस्य) सेनापतेः (वृष्णः) वीर्य्यवतः (वरुणस्य) सर्वोत्कृष्टस्य (राज्ञः) न्यायविनयादिभिः प्रकाशमानस्य सर्वाधिष्ठातुः (आदित्यानाम्) कृताष्टाचत्वारिंशद् वर्षप्रमितब्रह्मचर्याणाम् (मरुताम्) पूर्णविद्याबलयुक्तानां पुरुषाणाम् (शर्द्धः) बलं सैन्यम् (उग्रम्) शत्रुभिः सोढुमशक्यम् (महामनसाम्) महान्ति मनांसि विज्ञानानि येषां तेषाम् (भुवनच्यवानाम्) ये भुवनान्युत्तमानि गृहाणि च्यवन्ते प्राप्नुवन्ति तेषाम् (घोषः) शौर्योत्साहजनको विचित्रवादित्रस्वरालापशब्दः (देवानाम्) विदुषाम् (जयताम्) शत्रून् विजेतुं समर्थानाम् (उत्) (अस्थात्) उत्तिष्ठतु ॥४१ ॥