या ते॒ धामा॑नि पर॒माणि॒ याऽव॒मा या म॑ध्य॒मा वि॑श्वकर्मन्नु॒तेमा। शिक्षा॒ सखि॑भ्यो ह॒विषि॑ स्वधावः स्व॒यं य॑जस्व त॒न्वं᳖ वृधा॒नः ॥२१ ॥
या। ते॒। धामा॑नि। प॒र॒माणि॑। या। अ॒व॒मा। या। म॒ध्य॒मा। वि॒श्व॒क॒र्म॒न्निति॑ विश्वऽकर्मन्। उ॒त। इ॒मा। शिक्ष॑। सखि॑भ्य॒ इति॒ सखि॑ऽभ्यः। ह॒विषि॑। स्व॒धा॒व॒ इति॑ स्वधाऽवः। स्व॒यम्। य॒ज॒स्व॒। त॒न्व᳖म्। वृ॒धा॒नः ॥२१ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(या) यानि। अत्र शेर्लुक् (ते) तव परमात्मनः (धामानि) दधति पदार्थान् येषु यैर्वा तानि जन्मस्थाननामानि (परमाणि) उत्तमानि (या) यानि (अवमा) कनिष्ठानि (या) यानि (मध्यमा) मध्यमानि मध्यस्थानि (विश्वकर्मन्) समग्रोत्तमकर्मकारिन् (उत) (इमा) इमानि (शिक्ष) शुभगुणानुपदिश। अत्र द्व्यचोऽतस्तिङः [अष्टा०६.३.१३५] इति दीर्घः (सखिभ्यः) मित्रेभ्यः (हविषि) दातुमादातुमर्हे व्यवहारे (स्वधावः) बह्वन्नयुक्त (स्वयम्) आज्ञापालकेभ्यः (यजस्व) संगच्छस्व (तन्वम्) शरीरम् (वृधानः) वृद्धिं कुर्वन् ॥२१ ॥