किस्वि॒द्वनं॒ कऽउ॒ स वृ॒क्षऽआ॑स॒ यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः। मनी॑षिणो॒ मन॑सा पृ॒च्छतेदु॒ तद्यद॒ध्यति॑ष्ठ॒द् भुव॑नानि धा॒रय॑न् ॥२० ॥
किम्। स्वि॒त्। वन॑म्। कः। ऊँ॒ऽइत्यूँ॑। सः। वृ॒क्षः। आ॒स॒। यतः॑। द्यावा॑पृथि॒वी इति॒ द्यावा॑पृथि॒वी। नि॒ष्ट॒त॒क्षुः। नि॒स्त॒त॒क्षुरिति॑ निःऽतत॒क्षुः। मनी॑षिणः। मन॑सा। पृ॒च्छत॑। इत्। ऊँ॒ऽइत्यूँ॑। तत्। यत्। अ॒ध्यति॑ष्ठ॒दित्य॑धि॒ऽअति॑ष्ठत्। भुव॑नानि। धा॒रय॑न् ॥२० ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तदेवाह ॥
(किम्) (स्वित्) (वनम्) संभजनीयं कारणवनम् (कः) (उ) वितर्के (सः) परोक्षे (वृक्षः) यो वृश्च्यते छिद्यते स संसारः (आस) अस्ति (यतः) यस्य प्रकृत्याख्यकारणस्य सकाशात् (द्यावापृथिवी) विस्तृतौ सूर्यभूमिलोकौ (निष्टतक्षुः) नितरां ततक्ष, अत्र वचनव्यत्ययः। (मनीषिणः) मनस ईषिणो योगिनः (मनसा) विज्ञानेन (पृच्छत) (इत्) एव (उ) प्रसिद्धौ (तत्) सः (यत्) यः (अध्यतिष्ठत्) अधिष्ठातृत्वेन वर्त्तते (भुवनानि) भवन्ति भूतानि येषु ताँल्लोकान् (धारयन्) वायुविद्युत्सूर्यादिना धारणं कारयन् ॥२० ॥