हिन्दी - स्वामी दयानन्द सरस्वती
फिर वही विषय अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(अयम्) (ते) तव (योनिः) गृहम् (ऋत्वियः) ऋतुः प्राप्तोऽस्य सः (यतः) यस्य विद्याध्ययनस्याध्यापनस्य च सकाशात् (जातः) जाता च (अरोचथाः) प्रदीप्येथाः (तम्) (जानन्) जानन्ति च (अग्ने) विद्वन् विदुषि ! च (आ) (रोह) (अथ) आनन्तर्य्ये। निपातस्य च [अ०६.३.१३६] इति दीर्घः (नः) अस्माकम् (वर्धय) अन्येषामपि० [अ०६.३.१३७] इति दीर्घः (रयिम्) संपत्तिम्। [अयं मन्त्रः शत०८.६.१.२४ व्याख्यातः] ॥५६ ॥