येना॑ स॒मत्सु॑ सा॒सहोऽव॑ स्थि॒रा त॑नुहि॒ भूरि॒ शर्ध॑ताम्। व॒नेमा॑ तेऽअ॒भिष्टि॑भिः ॥४० ॥
येन॑। स॒मत्स्विति॑ स॒मत्ऽसु॑। सा॒सहः॑। स॒सह॒ इति॑ स॒सहः॑। अव॑। स्थि॒रा। त॒नु॒हि॒। भूरि॑। शर्ध॑ताम्। व॒नेम॑। ते॒। अ॒भिष्टि॑भि॒रित्य॒भिष्टि॑ऽभिः ॥४० ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर वह कैसा हो, यह विषय अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनः स कीदृश इत्याह ॥
(येन) अत्र संहितायाम् [अ०६.३.११४] इति दीर्घः (समत्सु) संग्रामेषु (सासहः) भृशं सोढा (अव) (स्थिर) स्थिराणि सैन्यानि (तनुहि) विस्तृणु (भूरि) बहु (शर्द्धताम्) बलं कुर्वताम्। बलवाचिशर्धशब्दात् करोत्यर्थे क्विप् ततः शतृ (वनेम) संभजेम। अत्र संहितायाम् [अ०६.३.११४] इति दीर्घः (ते) तव (अभिष्टिभिः) इष्टाभिरिच्छाभिः ॥४० ॥
