हिन्दी - स्वामी दयानन्द सरस्वती
फिर वह कैसा हो, यह विषय अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनः स कीदृश इत्याह ॥
(क्षपः) रात्रीः (राजन्) राजमान (उत) (त्मना) आत्मना। अत्र छान्दसो वर्णलोपः [अ०वा०८.२.२५] इत्याकारलोपः (अग्ने) विद्वन् ! (वस्तोः) दिनम् (उत) (उषसः) प्रातः सायं समयान् (सः) उक्तः (तिग्मजम्भ) तिग्मं तीव्रं जम्भो गात्रविनामनं यस्मात् तत्संबुद्धौ (रक्षसः) दुष्टान् (दह) भस्मीकुरु (प्रति) प्रत्यक्षे ॥३७ ॥